Shri Suryamandalshtakam

Shri Suryamandalshtakam

॥ श्रीसूर्यमण्डलाष्टकम् ॥

नमः सवित्रे जगदेकचक्षुषे जगत्प्रसूतिस्थितिनाशहेतवे।

त्रयीमयाय त्रिगुणात्मधारिणे विरञ्चिनारायणशङ्करात्मने॥1॥

यन्मण्डलं दीप्तिकरं विशालं रत्नप्रभं तीव्रमनादिरूपम्।

दारिद्र्यदुःखक्षयकारणं च पुनातु मां तत्सवितुर्वरेण्यम्॥2॥

यन्मण्डलं देवगणैः सुपूजितं विप्रैः स्तुतं भावनमुक्तिकोविदम्।

तं देवदेवं प्रणमामि सूर्यं पुनातु मां तत्सवितुर्वरेण्यम्॥3॥

यन्मण्डलं ज्ञानघनं त्वगम्यं त्रैलोक्यपूज्यं त्रिगुणात्मरूपम्।

समस्ततेजोमयदिव्यरूपं पुनातु मां तत्सवितुर्वरेण्यम्॥4॥

यन्मण्डलं गूढमतिप्रबोधं धर्मस्य वृद्धिं कुरुते जनानाम्।

यत्सर्वपापक्षयकारणं च पुनातु मां तत्सवितुर्वरेण्यम्॥5॥

यन्मण्डलं व्याधिविनाशदक्षं यदृग्यजुः सामसु संप्रगीतम्।

प्रकाशितं येन च भूर्भुवः स्वः पुनातु मां तत्सवितुर्वरेण्यम्॥6॥

यन्मण्डलं वेदविदो वदन्ति गायन्ति यच्चारणसिद्धसंघाः।

यद्योगिनो योगजुषां च संघाः पुनातु मां तत्सवितुर्वरेण्यम्॥7॥

यन्मण्डलं सर्वजनेषु पूजितं ज्योतिश्च कुर्यादिह मर्त्यलोके।

यत्कालकल्पक्षयकारणं च पुनातु मां तत्सवितुर्वरेण्यम्॥8॥

यन्मण्डलं विश्वसृजां प्रसिद्धमुत्पत्तिरक्षाप्रलयप्रगल्भम्।

यस्मिञ्जगत्संहरतेऽखिलच पुनातु मां तत्सवितुर्वरेण्यम्॥9॥

यन्मण्डलं सर्वगतस्य विष्णोरात्मा परं धाम विशुद्धतत्त्वम्।

सूक्ष्मान्तरैर्योगपथानुगम्यं पुनातु मां तत्सवितुर्वरेण्यम्॥10॥

यन्मण्डलं वेदविदो वदन्ति गायन्ति यच्चारणसिद्धसंघाः।

यन्मण्डलं वेदविदः स्मरन्ति पुनातु मां तत्सवितुर्वरेण्यम्॥11॥

यन्मण्डलं वेदविदोपगीतं यद्योगिनां योगपथानुगम्यम्।

तत्सर्ववेदं प्रणमामि सूर्यं पुनातु मां तत्सवितुर्वरेण्यम्॥12॥

मण्डलाष्टतयं पुण्यं यः पठेत्सततं नरः।

सर्वपापविशुद्धात्मा सूर्यलोके महीयते॥13॥

॥ इति श्रीमदादित्यहृदये मण्डलाष्टकं सम्पूर्णम् ॥

Today's Astrological Thoughts

“Every day of life is influenced by the motion of planets.”

— Varahamihira

Join Our Astrology WhatsApp Channel

Get daily horoscope updates, astro tips, and lucky insights directly on WhatsApp. Don’t miss your chance to stay one step ahead of destiny!